Sukta 5.3
त्वमग्ने वरुणो जायसे यत्त्वं मित्रो भवसि यत्समिद्धः । त्वे विश्वे सहसस्पुत्र देवास्त्वमिन्द्रो दाशुषे मर्त्याय ॥
त्वम॑ग्ने॒ वरु॑णो॒ जाय॑से॒ यत्त्वं मि॒त्रो भ॑वसि॒ यत्समि॑द्धः । त्वे विश्वे॑ सहसस्पुत्र दे॒वास्त्वमिन्द्रो॑ दा॒शुषे॒ मर्त्या॑य ॥
tvám agne váruṇo jā́yase yát tváṃ mitró bhavasi yát samíddhaḥ | tvé víśve sahasaḥ putra devā́s tvám índro dāśúṣe mártyāya ||
You, O Agni, are born as Varuṇa; you become Mitra when you are kindled. In you, O son of Strength, all the gods are; you are Indra for the mortal who gives—power and victory to the offering soul.
त्वम् । अ॒ग्ने॒ । वरु॑णः । जाय॑से । यत् । त्वम् । मि॒त्रः । भ॒व॒सि॒ । यत् । सम्ऽइ॑द्धः । त्वे । विश्वे॑ । स॒ह॒सः॒ । पु॒त्र॒ । दे॒वाः । त्वम् । इन्द्रः॑ । दा॒शुषे॑ । मर्त्या॑य ॥त्वम् । अग्ने । वरुणः । जायसे । यत् । त्वम् । मित्रः । भवसि । यत् । सम्इद्धः । त्वे । विश्वे । सहसः । पुत्र । देवाः । त्वम् । इन्द्रः । दाशुषे । मर्त्याय ॥tvam | agne | varuṇaḥ | jāyase | yat | tvam | mitraḥ | bhavasi | yat | sam-iddhaḥ | tve | viśve | sahasaḥ | putra | devāḥ | tvam | indraḥ | dāśuṣe | martyāya