Sukta 5.25
एवाँ अग्निं वसूयवः सहसानं ववन्दिम । स नो विश्वा अति द्विषः पर्षन्नावेव सुक्रतुः ॥
ए॒वाँ अ॒ग्निं व॑सू॒यव॑: सहसा॒नं व॑वन्दिम । स नो॒ विश्वा॒ अति॒ द्विष॒: पर्ष॑न्ना॒वेव॑ सु॒क्रतु॑: ॥
evā́ṃ agníṃ vasū-yávaḥ sahasā́naṃ vavandima | sá no víśvā ati dvíṣaḥ párṣan nā́vāiva su-krátuḥ ||
Thus we, seekers of the true riches, have made obeisance to Agni the mighty. May he, of good and right will, carry us beyond all hatreds and hostile forces, as a ship bears one across.
ए॒व । अ॒ग्निम् । व॒सु॒ऽयवः॑ । स॒ह॒सा॒नम् । व॒व॒न्दि॒म॒ । सः । नः॒ । विश्वा॑ । अति॑ । द्विषः॑ । पर्ष॑त् । ना॒वाऽइ॑व । सु॒ऽक्रतुः॑ ॥एव । अग्निम् । वसुयवः । सहसानम् । ववन्दिम । सः । नः । विश्वा । अति । द्विषः । पर्षत् । नावाइव । सुक्रतुः ॥eva | agnim | vasu-yavaḥ | sahasānam | vavandima | saḥ | naḥ | viśvā | at i | dviṣaḥ | parṣat | nāvāiva | su-kratuḥ