Sukta 5.19
अभ्यवस्थाः प्र जायन्ते प्र वव्रेर्वव्रिश्चिकेत । उपस्थे मातुर्वि चष्टे ॥
अ॒भ्य॑व॒स्थाः प्र जा॑यन्ते॒ प्र व॒व्रेर्व॒व्रिश्चि॑केत । उ॒पस्थे॑ मा॒तुर्वि च॑ष्टे ॥
abhy àvasthā́ḥ prá jāyante prá vavré r vavríś ciketa | upásthe mātúr ví caṣṭe ||
The enveloping states are born forth; from the covering the hidden one becomes conscious; in the lap of the Mother he is seen in his distinct form.
अ॒भि । अ॒व॒ऽस्थाः । प्र । जा॒य॒न्ते॒ । प्र । व॒व्रेः । व॒व्रिः । चि॒के॒त॒ । उ॒पऽस्थे॑ । मा॒तुः । वि । च॒ष्टे॒ ॥अभि । अवस्थाः । प्र । जायन्ते । प्र । वव्रेः । वव्रिः । चिकेत । उपस्थे । मातुः । वि । चष्टे ॥abhi | ava-sthāḥ | pra | jāyante | pra | vavreḥ | vavriḥ | ciketa | upa-sthe | mātuḥ | vi | caṣte