Sukta 4.7
अयमिह प्रथमो धायि धातृभिर्होता यजिष्ठो अध्वरेष्वीड्यः । यमप्नवानो भृगवो विरुरुचुर्वनेषु चित्रं विभ्वं विशेविशे ॥
अ॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒र्होता॒ यजि॑ष्ठो अध्व॒रेष्वीड्य॑: । यमप्न॑वानो॒ भृग॑वो विरुरु॒चुर्वने॑षु चि॒त्रं वि॒भ्वं॑ वि॒शेवि॑शे ॥
ayám ihá prathamó dhā́yi dhātṛ́bhir hótā yájiṣṭho adhvaréṣv ī́ḍyaḥ | yám apnávāno bhṛ́gavo vi-rurucúr váneṣu citráṃ vi-bhvám viśé-viśe ||
This one here was first established by the ordainers—Agni the Priest, most worshipful, to be adored in the sacrifices. Him the Bhṛgus, winning him, made blaze forth in the forests, a wondrous vast power for clan after clan.
अ॒यम् । इ॒ह । प्र॒थ॒मः । धा॒यि॒ । धा॒तृऽभिः॑ । होता॑ । यजि॑ष्ठः । अ॒ध्व॒रेषु॑ । ईड्यः॑ । यम् । अप्न॑वानः । भृग॑वः । वि॒ऽरु॒रु॒चुः । वने॑षु । चि॒त्रम् । वि॒ऽभ्व॑म् । वि॒शेऽवि॑शे ॥अयम् । इह । प्रथमः । धायि । धातृभिः । होता । यजिष्ठः । अध्वरेषु । ईड्यः । यम् । अप्नवानः । भृगवः । विरुरुचुः । वनेषु । चित्रम् । विभ्वम् । विशेविशे ॥ayam | iha | prathamaḥ | dhāyi | dhātṛ-bhiḥ | hotā | yajiṣṭhaḥ | adhvareṣu | īḍyaḥ | yam | apnavānaḥ | bhṛgavaḥ | vi-rurucuḥ | vaneṣu | citram | vi-bhvam | viśe--viśe