Sukta 4.6
न यस्य सातुर्जनितोरवारि न मातरापितरा नू चिदिष्टौ । अधा मित्रो न सुधितः पावकोऽग्निर्दीदाय मानुषीषु विक्षु ॥
न यस्य॒ सातु॒र्जनि॑तो॒रवा॑रि॒ न मा॒तरा॑पि॒तरा॒ नू चि॑दि॒ष्टौ । अधा॑ मि॒त्रो न सुधि॑तः पाव॒को॒३॒॑ऽग्निर्दी॑दाय॒ मानु॑षीषु वि॒क्षु ॥
ná yásya sā́tur jánitor avā́ri ná mā́tarāpitárā nú cid iṣṭáu | ádhā mitró ná su-dhítaḥ pāvakó ’gnír dīdāya mā́nuṣīṣu víkṣu ||
None has barred his winning movement, neither begetter nor even the parents in their chosen act; then, like Mitra well-established, the purifying Agni has shone out among the human clans.
न । यस्य॑ । सातुः॑ । जनि॑तोः । अवा॑रि । न । मा॒तरा॑पि॒तरा॑ । नु । चि॒त् । इ॒ष्टौ । अध॑ । मि॒त्रः । न । सुऽधि॑तः । पा॒व॒कः । अ॒ग्निः । दी॒दा॒य॒ । मानु॑षीषु । वि॒क्षु ॥न । यस्य । सातुः । जनितोः । अवारि । न । मातरापितरा । नु । चित् । इष्टौ । अध । मित्रः । न । सुधितः । पावकः । अग्निः । दीदाय । मानुषीषु । विक्षु ॥na | yasya | sātuḥ | janitoḥ | avāri | na | mātarāpitarā | nu | cit | iṣṭau | adha | mitraḥ | na | su-dhitaḥ | pāvakaḥ | agniḥ | dīdāya | mānuṣīṣu | vikṣu