Sukta 4.58
धामन्ते विश्वं भुवनमधि श्रितमन्तः समुद्रे हृद्यन्तरायुषि । अपामनीके समिथे य आभृतस्तमश्याम मधुमन्तं त ऊर्मिम् ॥
धाम॑न्ते॒ विश्वं॒ भुव॑न॒मधि॑ श्रि॒तम॒न्तः स॑मु॒द्रे हृ॒द्य१॒॑न्तरायु॑षि । अ॒पामनी॑के समि॒थे य आभृ॑त॒स्तम॑श्याम॒ मधु॑मन्तं त ऊ॒र्मिम् ॥
dhā́mante víśvaṃ bhúvanam ádhi śritám antáḥ samudré hṛ́di antár ā́yuṣi | apā́m anī́ke samithé yá ā́bhṛtas tám aśyāma mádhumantaṃ ta ū́rmim ||
Thy law of being bears all the worlds, set above and founded within; inwardly it is established in the ocean, in the heart, in the inmost life. That wave of thine, honey-rich, which is brought forth in the meeting-place on the face of the waters—may we attain it.
धाम॑न् । ते॒ । विश्व॑म् । भुव॑नम् । अधि॑ । श्रि॒तम् । अ॒न्तरिति॑ । स॒मु॒द्रे । हृ॒दि । अ॒न्तः । आयु॑षि । अ॒पाम् । अनी॑के । स॒म्ऽइ॒थे । यः । आऽभृ॑तः । तम् । अ॒श्या॒म॒ । मधु॑ऽमन्तम् । ते॒ । ऊ॒र्मिम् ॥धामन् । ते । विश्वम् । भुवनम् । अधि । श्रितम् । अन्तरिति । समुद्रे । हृदि । अन्तः । आयुषि । अपाम् । अनीके । सम्इथे । यः । आभृतः । तम् । अश्याम । मधुमन्तम् । ते । ऊर्मिम् ॥dhāman | te | viśvam | bhuvanam | adhi | śritam | antariti | samudre | hṛdi | antaḥ | āyuṣi | apām | anīke | sam-ithe | yaḥ | ābhṛtaḥ | tam | aśyāma | madhu-mantam | te | ūrmim