Sukta 4.51
तद्वो दिवो दुहितरो विभातीरुप ब्रुव उषसो यज्ञकेतुः । वयं स्याम यशसो जनेषु तद्द्यौश्च धत्तां पृथिवी च देवी ॥
तद्वो॑ दिवो दुहितरो विभा॒तीरुप॑ ब्रुव उषसो य॒ज्ञके॑तुः । व॒यं स्या॑म य॒शसो॒ जने॑षु॒ तद्द्यौश्च॑ ध॒त्तां पृ॑थि॒वी च॑ दे॒वी ॥
tád vo divo duhitaraḥ vibhātīr úpa bruve uṣaso yajñá-ketuḥ | vayáṃ syāma yaśáso jáneṣu tád dyáuś ca dhattāṃ pṛthivī́ ca devī́ ||
This to you, O shining daughters of Heaven, I speak—O Dawns, sign of the sacrifice: may we be bearers of glory among the peoples. Let Heaven and the divine Earth establish that for us.
तत् । वः॒ । दि॒वः॒ । दु॒हि॒त॒रः॒ । वि॒ऽभा॒तीः । उप॑ । ब्रु॒वे॒ । उ॒ष॒सः॒ । य॒ज्ञऽके॑तुः । व॒यम् । स्या॒म॒ । य॒शसः॑ । जने॑षु । तत् । द्यौः । च॒ । ध॒त्ताम् । पृ॒थि॒वी । च॒ । दे॒वी ॥तत् । वः । दिवः । दुहितरः । विभातीः । उप । ब्रुवे । उषसः । यज्ञकेतुः । वयम् । स्याम । यशसः । जनेषु । तत् । द्यौः । च । धत्ताम् । पृथिवी । च । देवी ॥tat | vaḥ | divaḥ | duhitaraḥ | vi-bhātīḥ | upa | bruve | uṣasaḥ | yajña-ketuḥ | vayam | syāma | yaśasaḥ | janeṣu | tat | dyauḥ | ca | dhattām | pṛthivī | ca | devī