Sukta 4.5
प्र ताँ अग्निर्बभसत्तिग्मजम्भस्तपिष्ठेन शोचिषा यः सुराधाः । प्र ये मिनन्ति वरुणस्य धाम प्रिया मित्रस्य चेततो ध्रुवाणि ॥
प्र ताँ अ॒ग्निर्ब॑भसत्ति॒ग्मज॑म्भ॒स्तपि॑ष्ठेन शो॒चिषा॒ यः सु॒राधा॑: । प्र ये मि॒नन्ति॒ वरु॑णस्य॒ धाम॑ प्रि॒या मि॒त्रस्य॒ चेत॑तो ध्रु॒वाणि॑ ॥
prá tā́m̐ agnír babhasat tigmá-jambhas tápiṣṭhena śocíṣā yáḥ su-rā́dhāḥ | prá ye minánti váruṇasya dhā́ma priyā́ mitrásya cétato dhruvā́ṇi ||
Agni, with keen jaws, blazes against them with his most burning flame—he of perfect workings. He smites those who impair Varuṇa’s law-abode and disturb the dear, firm harmonies of Mitra that awaken the conscious being.
प्र । तान् । अ॒ग्निः । ब॒भ॒स॒त् । ति॒ग्मऽज॑म्भः । तपि॑ष्ठेन । शो॒चिषा॑ । यः । सु॒ऽराधाः॑ । प्र । ये । मि॒नन्ति॑ । वरु॑णस्य । धाम॑ । प्रि॒या । मि॒त्रस्य॑ । चेत॑तः । ध्रु॒वाणि॑ ॥प्र । तान् । अग्निः । बभसत् । तिग्मजम्भः । तपिष्ठेन । शोचिषा । यः । सुराधाः । प्र । ये । मिनन्ति । वरुणस्य । धाम । प्रिया । मित्रस्य । चेततः । ध्रुवाणि ॥pra | tān | agniḥ | babhasat | tigma-jambhaḥ | tapiṣṭhena | śociṣā | yaḥ | su-rādhāḥ | pra | ye | minanti | varuṇasya | dhāma | priyā | mitrasya | cetataḥ | dhruvāṇi