Sukta 4.5
वैश्वानराय मीळ्हुषे सजोषाः कथा दाशेमाग्नये बृहद्भाः । अनूनेन बृहता वक्षथेनोप स्तभायदुपमिन्न रोधः ॥
वै॒श्वा॒न॒राय॑ मी॒ळ्हुषे॑ स॒जोषा॑: क॒था दा॑शेमा॒ग्नये॑ बृ॒हद्भाः । अनू॑नेन बृह॒ता व॒क्षथे॒नोप॑ स्तभायदुप॒मिन्न रोध॑: ॥
vaiśvānaráya mīḷhúṣe sa-jóṣāḥ kathā́ dāśemā́gnaye bṛhád-bhāḥ | anū́nena bṛhatā́ vakṣáthenópa stabhāyad upa-mín na ródhaḥ ||
To Vaiśvānara, the bountiful, in one accord—how shall we give our offering to Agni of the vast radiance? With an undiminished, wide-bearing power he has propped up the obstruction, as it were a measured limit, so the path may stand open to the growing Light.
वै॒श्वा॒न॒राय॑ । मी॒ळ्हुषे॑ । स॒ऽजोषाः॑ । क॒था । दा॒शे॒म॒ । अ॒ग्नये॑ । बृ॒हत् । भाः । अनू॑नेन । बृ॒ह॒ता । व॒क्षथे॑न । उप॑ । स्त॒भा॒य॒त् । उ॒प॒ऽमित् । न । रोधः॑ ॥वैश्वानराय । मीळ्हुषे । सजोषाः । कथा । दाशेम । अग्नये । बृहत् । भाः । अनूनेन । बृहता । वक्षथेन । उप । स्तभायत् । उपमित् । न । रोधः ॥vaiśvānarāya | mīḷhuṣe | sa-joṣāḥ | kathā | dāśema | agnaye | bṛhat | bhāḥ | anūnena | bṛhatā | vakṣathena | upa | stabhāyat | upa-mit | na | rodhaḥ