Sukta 4.4
अया ते अग्ने समिधा विधेम प्रति स्तोमं शस्यमानं गृभाय । दहाशसो रक्षसः पाह्यस्मान्द्रुहो निदो मित्रमहो अवद्यात् ॥
अ॒या ते॑ अग्ने स॒मिधा॑ विधेम॒ प्रति॒ स्तोमं॑ श॒स्यमा॑नं गृभाय । दहा॒शसो॑ र॒क्षस॑: पा॒ह्य१॒॑स्मान्द्रु॒हो नि॒दो मि॑त्रमहो अव॒द्यात् ॥
ayā́ te agne sam-ídhā vidhema práti stómaṃ śasyámānaṃ gṛbhāya | dáhā́śaso rakṣásaḥ pā́hy àsmān drúhaḥ nídaḥ mitra-maho avadyā́t ||
With this kindling-force, O Agni, we would serve thee; accept in return the hymn that is being voiced. Burn the powers of perverse darkness (rakṣas), and guard us from the deceiver and the slanderer, O thou of vast friendship, from all that is blameworthy and falls away from the Truth.
अ॒या । ते॒ । अ॒ग्ने॒ । स॒म्ऽइधा॑ । वि॒धे॒म॒ । प्रति॑ । स्तोम॑म् । श॒स्यमा॑नम् । गृ॒भा॒य॒ । दह॑ । अ॒शसः॑ । र॒क्षसः॑ । पा॒हि । अ॒स्मान् । द्रु॒हः । नि॒दः । मि॒त्र॒ऽम॒हः॒ । अ॒व॒द्यात् ॥अया । ते । अग्ने । सम्इधा । विधेम । प्रति । स्तोमम् । शस्यमानम् । गृभाय । दह । अशसः । रक्षसः । पाहि । अस्मान् । द्रुहः । निदः । मित्रमहः । अवद्यात् ॥ayā | te | agne | sam-idhā | vidhema | prati | stomam | śasyamānam | gṛbhāya | daha | aśasaḥ | rakṣasaḥ | pāhi | asmān | druhaḥ | nidaḥ | mitra-mahaḥ | avadyāt