Sukta 4.4
त्वया वयं सधन्यस्त्वोतास्तव प्रणीत्यश्याम वाजान् । उभा शंसा सूदय सत्यतातेऽनुष्ठुया कृणुह्यह्रयाण ॥
त्वया॑ व॒यं स॑ध॒न्य१॒॑स्त्वोता॒स्तव॒ प्रणी॑त्यश्याम॒ वाजा॑न् । उ॒भा शंसा॑ सूदय सत्यतातेऽनुष्ठु॒या कृ॑णुह्यह्रयाण ॥
tváyā vayáṃ sadhanyàs tvótās táva práṇīty aśyāma vā́jān | ubhā́ śáṃsā sūdaya satyatāte 'nuṣṭhuyā́ kṛṇuhy ahrayāṇa ||
With you we are capable of the right winning; upheld by you, by your leading may we reach the plenitudes of force. Make both our praises prosper, O child of Truth; accomplish it in right sequence, without haste or stumbling.
त्वया॑ । व॒यम् । स॒ध॒न्यः॑ । त्वाऽऊ॑ताः । तव॑ । प्रऽनी॑ती । अ॒श्या॒म॒ । वाजा॑न् । उ॒भा । शंसा॑ । सू॒द॒य॒ । स॒त्य॒ऽता॒ते॒ । अ॒नु॒ष्ठु॒या । कृ॒णु॒हि॒ । अ॒ह्र॒या॒ण॒ ॥त्वया । वयम् । सधन्यः । त्वाऊताः । तव । प्रनीती । अश्याम । वाजान् । उभा । शंसा । सूदय । सत्यताते । अनुष्ठुया । कृणुहि । अह्रयाण ॥tvayā | vayam | sadhanyaḥ | tvāūtāḥ | tava | pra-nītī | aśyāma | vājān | ubhā | śaṃsā | sūdaya | satya-tāte | anuṣṭhuyā | kṛṇuhi | ahrayāṇa