Sukta 4.3
त्वं चिन्नः शम्या अग्ने अस्या ऋतस्य बोध्यृतचित्स्वाधीः । कदा त उक्था सधमाद्यानि कदा भवन्ति सख्या गृहे ते ॥
त्वं चि॑न्न॒: शम्या॑ अग्ने अ॒स्या ऋ॒तस्य॑ बोध्यृतचित्स्वा॒धीः । क॒दा त॑ उ॒क्था स॑ध॒माद्या॑नि क॒दा भ॑वन्ति स॒ख्या गृ॒हे ते॑ ॥
tvaṃ cín naḥ śámyā agne asyā́ ṛtásya bodhy ṛta-cit sv-ādhīḥ | kadā́ ta ukthā́ sadha-mā́dyāni kadā́ bhavanti sakhyā́ gṛhé te ||
Even from the kindling-stick, O Agni, become aware for us of this Order; O knower of the Truth, well-disposed in understanding. When will your inspired utterances and your common joyings come to be, when will friendships be born in your home?
त्वम् । चि॒त् । नः॒ । शम्यै॑ । अ॒ग्ने॒ । अ॒स्याः । ऋ॒तस्य॑ । बो॒धि॒ । ऋ॒त॒ऽचि॒त् । सु॒ऽआ॒धीः । क॒दा । ते॒ । उ॒क्था । स॒ध॒ऽमाद्या॑नि । क॒दा । भ॒व॒न्ति॒ । स॒ख्या । गृ॒हे । ते॒ ॥त्वम् । चित् । नः । शम्यै । अग्ने । अस्याः । ऋतस्य । बोधि । ऋतचित् । सुआधीः । कदा । ते । उक्था । सधमाद्यानि । कदा । भवन्ति । सख्या । गृहे । ते ॥tvam | cit | naḥ | śamyai | agne | asyāḥ | ṛtasya | bodhi | ṛta-cit | su-ādhīḥ | kadā | te | ukthā | sadha-mādyāni | kadā | bhavanti | sakhyā | gṛhe | te