Sukta 4.3
अयं योनिश्चकृमा यं वयं ते जायेव पत्य उशती सुवासाः । अर्वाचीनः परिवीतो नि षीदेमा उ ते स्वपाक प्रतीचीः ॥
अ॒यं योनि॑श्चकृ॒मा यं व॒यं ते॑ जा॒येव॒ पत्य॑ उश॒ती सु॒वासा॑: । अ॒र्वा॒ची॒नः परि॑वीतो॒ नि षी॑दे॒मा उ॑ ते स्वपाक प्रती॒चीः ॥
ayáṃ yóniś cakṛmá yaṃ vayáṃ te jāyéva pátya uśatī́ su-vā́sāḥ | arvācīnáḥ pári-vīto ní ṣīdemā́ u te su-apāka pratīcī́ḥ ||
This is the womb-seat we have made for you; as a wife for her lord, longing and well-robed, we prepare it. Turn hither, clothed all around, and sit down; these offerings of ours come back to you, O well-cooking one, as responsive powers.
अ॒यम् । योनिः॑ । च॒कृ॒म । यम् । व॒यम् । ते॒ । जा॒याऽइ॑व । पत्ये॑ । उ॒श॒ती । सु॒ऽवासाः॑ । अ॒र्वा॒ची॒नः । परि॑ऽवीतः । नि । सी॒द॒ । इ॒माः । ऊँ॒ इति॑ । ते॒ । सु॒ऽअ॒पा॒क॒ । प्र॒ती॒चीः ॥अयम् । योनिः । चकृम । यम् । वयम् । ते । जायाइव । पत्ये । उशती । सुवासाः । अर्वाचीनः । परिवीतः । नि । सीद । इमाः । ऊँ इति । ते । सुअपाक । प्रतीचीः ॥ayam | yoniḥ | cakṛma | yam | vayam | te | jāyāiva | patye | uśatī | su-vāsāḥ | arvācīnaḥ | pari-vītaḥ | ni | sīda | imāḥ | oṃ iti | te | su-apāka | pratīcīḥ