Sukta 4.3
आ वो राजानमध्वरस्य रुद्रं होतारं सत्ययजं रोदस्योः । अग्निं पुरा तनयित्नोरचित्ताद्धिरण्यरूपमवसे कृणुध्वम् ॥
आ वो॒ राजा॑नमध्व॒रस्य॑ रु॒द्रं होता॑रं सत्य॒यजं॒ रोद॑स्योः । अ॒ग्निं पु॒रा त॑नयि॒त्नोर॒चित्ता॒द्धिर॑ण्यरूप॒मव॑से कृणुध्वम् ॥
ā vo rājānam adhvarásya rudráṃ hotā́raṃ satyá-yajaṃ rodasyoḥ | agníṃ purā tanayitnór acittā́d híraṇya-rūpam ávase kṛṇudhvam ||
Bring forward for you the King of the offering, the Rudra-force as the true sacrificing Priest of the two worlds. Make Agni—ancient, born of the fostering energies—golden in form, a power of help for us, awakening even what lies unperceived.
आ । वः॒ । राजा॑नम् । अ॒ध्व॒रस्य॑ । रु॒द्रम् । होता॑रम् । स॒त्य॒ऽयज॒म् । रोद॑स्योः । अ॒ग्निम् । पु॒रा । त॒न॒यि॒त्नोः । अ॒चित्ता॑त् । हिर॑ण्यऽरूपम् । अव॑से । कृ॒णु॒ध्व॒म् ॥आ । वः । राजानम् । अध्वरस्य । रुद्रम् । होतारम् । सत्ययजम् । रोदस्योः । अग्निम् । पुरा । तनयित्नोः । अचित्तात् । हिरण्यरूपम् । अवसे । कृणुध्वम् ॥ā | vaḥ | rājānam | adhvarasya | rudram | hotāram | satya-yajam | rodasyoḥ | agnim | purā | tanayitnoḥ | acittāt | hiraṇya-rūpam | avase | kṛṇudhvam