Sukta 4.26
अहं मनुरभवं सूर्यश्चाहं कक्षीवाँ ऋषिरस्मि विप्रः । अहं कुत्समार्जुनेयं न्यृञ्जेऽहं कविरुशना पश्यता मा ॥
अ॒हं मनु॑रभवं॒ सूर्य॑श्चा॒हं क॒क्षीवाँ॒ ऋषि॑रस्मि॒ विप्र॑: । अ॒हं कुत्स॑मार्जुने॒यं न्यृ॑ञ्जे॒ऽहं क॒विरु॒शना॒ पश्य॑ता मा ॥
aháṃ mánur abhavaṃ sū́ryaś cāháṃ kakṣī́vāṃ ṛ́ṣir asmi vípraḥ | aháṃ kútsam ārjuneyáṃ ní ṛñje ’háṃ kavír uśánā páśyatā mā ||
I became Manu, and I became the Sun; I am Kakṣīvān the seer, the inspired one. I set in motion Kutsá the son of Arjuna; I am the poet Uśanā—behold me.
अ॒हम् । मनुः॑ । अ॒भ॒व॒म् । सूर्यः॑ । च॒ । अ॒हम् । क॒क्षीवा॑न् । ऋषिः॑ । अ॒स्मि॒ । विप्रः॑ । अ॒हम् । कुत्स॑म् । आ॒र्जु॒ने॒यम् । नि । ऋ॒ञ्जे॒ । अ॒हम् । क॒विः । उ॒शना॑ । पश्य॑त । मा॒ ॥अहम् । मनुः । अभवम् । सूर्यः । च । अहम् । कक्षीवान् । ऋषिः । अस्मि । विप्रः । अहम् । कुत्सम् । आर्जुनेयम् । नि । ऋञ्जे । अहम् । कविः । उशना । पश्यत । मा ॥aham | manuḥ | abhavam | sūryaḥ | ca | aham | kakṣīvān | ṛṣiḥ | asmi | vipraḥ | aham | kutsam | ārjuneyam | ni | ṛñje | aham | kaviḥ | uśanā | paśyata | mā