Sukta 4.23
ऋतं येमान ऋतमिद्वनोत्यृतस्य शुष्मस्तुरया उ गव्युः । ऋताय पृथ्वी बहुले गभीरे ऋताय धेनू परमे दुहाते ॥
ऋ॒तं ये॑मा॒न ऋ॒तमिद्व॑नोत्यृ॒तस्य॒ शुष्म॑स्तुर॒या उ॑ ग॒व्युः । ऋ॒ताय॑ पृ॒थ्वी ब॑हु॒ले ग॑भी॒रे ऋ॒ताय॑ धे॒नू प॑र॒मे दु॑हाते ॥
ṛtáṃ yemānā́ ṛtám íd vanoty ṛtásya śúṣmas turáyā u gavyúḥ | ṛtā́ya pṛthvī́ bahulé gabhīré ṛtā́ya dhenū́ paramé duhāte ||
He who holds himself to the Truth wins the Truth; the might of the Truth presses forward, seeking the luminous herds. For the Truth the wide Earth becomes abundant and deep; for the Truth the two Milch-Cows in the highest realm yield their milk (the streams of plenitude).
ऋ॒तम् । ये॒मा॒नः । ऋ॒तम् । इत् । व॒नो॒ति॒ । ऋ॒तस्य॑ । शुष्मः॑ । तु॒र॒ऽयाः । ऊँ॒ इति॑ । ग॒व्युः । ऋ॒ताय॑ । पृ॒थ्वी इति॑ । ब॒हु॒ले इति॑ । ग॒भी॒रे इति॑ । ऋ॒ताय॑ । धे॒नू इति॑ । प॒र॒मे इति॑ । दु॒हा॒ते॒ इति॑ ॥ऋतम् । येमानः । ऋतम् । इत् । वनोति । ऋतस्य । शुष्मः । तुरयाः । ऊँ इति । गव्युः । ऋताय । पृथ्वी इति । बहुले इति । गभीरे इति । ऋताय । धेनू इति । परमे इति । दुहाते इति ॥ṛtam | yemānaḥ | ṛtam | it | vanoti | ṛtasya | śuṣmaḥ | tura-yāḥ | oṃ iti | gavyuḥ | ṛtāya | pṛthvī iti | bahuleiti | gabhīre iti | ṛtāya | dhenū iti | parame iti | duhāteiti