Sukta 4.20
आ न इन्द्रो दूरादा न आसादभिष्टिकृदवसे यासदुग्रः । ओजिष्ठेभिर्नृपतिर्वज्रबाहुः संगे समत्सु तुर्वणिः पृतन्यून् ॥
आ न॒ इन्द्रो॑ दू॒रादा न॑ आ॒साद॑भिष्टि॒कृदव॑से यासदु॒ग्रः । ओजि॑ष्ठेभिर्नृ॒पति॒र्वज्र॑बाहुः सं॒गे स॒मत्सु॑ तु॒र्वणि॑: पृत॒न्यून् ॥
ā́ na índro dūrā́d ā́ na āsā́d abhiṣṭi-kṛ́d ávase yāsad ugráḥ | ójiṣṭhebhiḥ nṛ-pátir vájra-bāhuḥ saṃ-gé samát-su turváṇiḥ pṛtanyū́n ||
Let Indra come to us from afar, let him come from near—he who makes our sure protection, the formidable. With his most puissant strengths, the lord of men, whose arm bears the thunder-force, may he in the clash of battles swiftly overcome the fighters who rage against the advance.
आ । नः॒ । इन्द्रः॑ । दू॒रात् । आ । नः॒ । आ॒सात् । अ॒भि॒ष्टि॒ऽकृत् । अव॑से । या॒स॒त् । उ॒ग्रः । ओजि॑ष्ठेभिः । नृ॒ऽपतिः॑ । वज्र॑ऽबाहुः । स॒म्ऽगे । स॒मत्ऽसु॑ । पृ॒त॒न्यून् ॥आ । नः । इन्द्रः । दूरात् । आ । नः । आसात् । अभिष्टिकृत् । अवसे । यासत् । उग्रः । ओजिष्ठेभिः । नृपतिः । वज्रबाहुः । सम्गे । समत्सु । पृतन्यून् ॥ā | naḥ | indraḥ | dūrāt | ā | naḥ | āsāt | abhiṣṭi-kṛt | avase | yāsat | ugraḥ | ojiṣṭhebhiḥ | nṛ-patiḥ | vajra-bāhuḥ | sam-ge | samat-su | pṛtanyūn