Sukta 4.2
यो मर्त्येष्वमृत ऋतावा देवो देवेष्वरतिर्निधायि । होता यजिष्ठो मह्ना शुचध्यै हव्यैरग्निर्मनुष ईरयध्यै ॥
यो मर्त्ये॑ष्व॒मृत॑ ऋ॒तावा॑ दे॒वो दे॒वेष्व॑र॒तिर्नि॒धायि॑ । होता॒ यजि॑ष्ठो म॒ह्ना शु॒चध्यै॑ ह॒व्यैर॒ग्निर्मनु॑ष ईर॒यध्यै॑ ॥
yó martyeṣv amṛ́ta ṛtā́vā devó devéṣv aratír nidhā́yi | hotā́ yájiṣṭho mahnā́ śucádhyai havyáir agnír mánuṣa īrayádhyai ||
He who, immortal amid mortals, the god who bears the Truth (ṛta-vān), has been set as the active mover among the gods—Agni, the Hotar, most skilled in offering: by his greatness he kindles the luminous intelligence, and by the oblations he impels the human being upward.
यः । मर्त्ये॑षु । अ॒मृतः॑ । ऋ॒तऽवा॑ । दे॒वः । दे॒वेषु । अ॒र॒तिः । नि॒ऽधायि॑ । होता॑ । यजि॑ष्ठः । म॒ह्ना । शु॒चध्यै॑ । ह॒व्यैः । अ॒ग्निः । मनु॑षः । ई॒र॒यध्यै॑ ॥यः । मर्त्येषु । अमृतः । ऋतवा । देवः । देवेषु । अरतिः । निधायि । होता । यजिष्ठः । मह्ना । शुचध्यै । हव्यैः । अग्निः । मनुषः । ईरयध्यै ॥yaḥ | martyeṣu | amṛtaḥ | ṛta-vā | devaḥ | deveṣu | aratiḥ | ni-dhāyi | hotā | yajiṣṭhaḥ | mahnā | śucadhyai | havyaiḥ | agniḥ | manuṣaḥ | īrayadhyai