Sukta 4.18
अयं पन्था अनुवित्तः पुराणो यतो देवा उदजायन्त विश्वे । अतश्चिदा जनिषीष्ट प्रवृद्धो मा मातरममुया पत्तवे कः ॥
अ॒यं पन्था॒ अनु॑वित्तः पुरा॒णो यतो॑ दे॒वा उ॒दजा॑यन्त॒ विश्वे॑ । अत॑श्चि॒दा ज॑निषीष्ट॒ प्रवृ॑द्धो॒ मा मा॒तर॑ममु॒या पत्त॑वे कः ॥
ayáṃ pánthā ánu-vittaḥ purāṇó yáto devā́ ud ájāyanta víśve | atáś cid ā́ janiṣīṣṭa prá-vṛddho mā́ mātáram amuyā́ páttave káḥ ||
This is the ancient path found again, from which all the gods were born upward. Even from here, grown in thy force, thou wouldst be born forth; do not, O child, go to strike down thy mother for that (impulse)—who indeed (would do so)?
अ॒यम् । पन्थाः॑ । अनु॑ऽवित्तः । पु॒रा॒णः । यतः॑ । दे॒वाः । उ॒त्ऽअजा॑यन्त । विश्वे॑ । अतः॑ । चि॒त् । आ । ज॒नि॒षी॒ष्ट॒ । प्रऽवृ॑द्धः । मा । मा॒तर॑म् । अ॒मु॒या । पत्त॑वे । क॒रिति॑ कः ॥अयम् । पन्थाः । अनुवित्तः । पुराणः । यतः । देवाः । उत्अजायन्त । विश्वे । अतः । चित् । आ । जनिषीष्ट । प्रवृद्धः । मा । मातरम् । अमुया । पत्तवे । करिति कः ॥ayam | panthāḥ | anu-vittaḥ | purāṇaḥ | yataḥ | devāḥ | ut-ajāyanta | viśve | ataḥ | cit | ā | janiṣīṣṭa | pra-vṛddhaḥ | mā | mātaram | amuyā | pattave | karitikaḥ