Sukta 4.17
गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तो वृषणं वाजयन्तः । जनीयन्तो जनिदामक्षितोतिमा च्यावयामोऽवते न कोशम् ॥
ग॒व्यन्त॒ इन्द्रं॑ स॒ख्याय॒ विप्रा॑ अश्वा॒यन्तो॒ वृष॑णं वा॒जय॑न्तः । ज॒नी॒यन्तो॑ जनि॒दामक्षि॑तोति॒मा च्या॑वयामोऽव॒ते न कोश॑म् ॥
gavyánta índraṃ sakhyā́ya víprā aśvāyánto vṛ́ṣaṇaṃ vājáyantaḥ | janīyánto janidā́m ákṣitotim ā́ cyāvayāmo ’vaté ná kóśam ||
Seeking the rays (cows) for friendship with Indra, the inspired ones seek the steed-force and urge on the Bull who gives the plenitudes. Desiring the begetter of births, his imperishable help, we would draw it out for our fostering—like opening a treasury.
ग॒व्यन्तः॑ । इन्द्र॑म् । स॒ख्याय॑ । विप्राः॑ । अ॒श्व॒ऽयन्तः । वृष॑णम् । वा॒जय॑न्तः । ज॒नि॒ऽयन्तः॑ । ज॒नि॒ऽदाम् । अक्षि॑तऽऊतिम् । आ । च्य॒व॒या॒मः॒ । अ॒व॒ते । न कोश॑म् ॥गव्यन्तः । इन्द्रम् । सख्याय । विप्राः । अश्वयन्तः । वृषणम् । वाजयन्तः । जनियन्तः । जनिदाम् । अक्षितऊतिम् । आ । च्यवयामः । अवते । न कोशम् ॥gavyantaḥ | indram | sakhyāya | viprāḥ | aśva-yantaḥ | vṛṣaṇam | vājayantaḥ | jani-yantaḥ | jani-dām | akṣita-ūtim | ā | cyavayāmaḥ | avate | na kośam