Sukta 4.16
एभिर्नृभिरिन्द्र त्वायुभिष्ट्वा मघवद्भिर्मघवन्विश्व आजौ । द्यावो न द्युम्नैरभि सन्तो अर्यः क्षपो मदेम शरदश्च पूर्वीः ॥
ए॒भिर्नृभि॑रिन्द्र त्वा॒युभि॑ष्ट्वा म॒घव॑द्भिर्मघव॒न्विश्व॑ आ॒जौ । द्यावो॒ न द्यु॒म्नैर॒भि सन्तो॑ अ॒र्यः क्ष॒पो म॑देम श॒रद॑श्च पू॒र्वीः ॥
ebhír nṛ́bhir indra tvāyúbhiṣ ṭvā maghávadbhir maghavan víśva ā́jau | dyā́vo ná dyumnáir abhí sánto aryáḥ kṣapó mademá śarádaś ca pūrvī́ḥ ||
With these men of Indra’s own life-force, with these generous powers, O generous Lord, may we encompass you in every battle. Like the heavens with their lights, O noble one, may we rejoice through the nights and through many former autumns—enduring in your luminous victory.
ए॒भिः । नृऽभिः॑ । इ॒न्द्र॒ । त्वा॒युऽभिः॑ । त्वा॒ । म॒घव॑त्ऽभिः । म॒घ॒ऽव॒न् । विश्वे॑ । आ॒जौ । द्यावः॑ । न । द्यु॒म्नैः । अ॒भि । सन्तः॑ । अ॒र्यः । क्ष॒पः । म॒दे॒म॒ । श॒रदः॑ । च॒ । पू॒र्वीः ॥एभिः । नृभिः । इन्द्र । त्वायुभिः । त्वा । मघवत्भिः । मघवन् । विश्वे । आजौ । द्यावः । न । द्युम्नैः । अभि । सन्तः । अर्यः । क्षपः । मदेम । शरदः । च । पूर्वीः ॥ebhiḥ | nṛ-bhiḥ | indra | tvāyu-bhiḥ | tvā | maghavat-bhiḥ | magha-van | viśve | ājau | dyāvaḥ | na | dyumnaiḥ | abhi | santaḥ | aryaḥ | kṣapaḥ | madema | śaradaḥ | ca | pūrvīḥ