Sukta 4.16
तिग्मा यदन्तरशनिः पताति कस्मिञ्चिच्छूर मुहुके जनानाम् । घोरा यदर्य समृतिर्भवात्यध स्मा नस्तन्वो बोधि गोपाः ॥
ति॒ग्मा यद॒न्तर॒शनि॒: पता॑ति॒ कस्मि॑ञ्चिच्छूर मुहु॒के जना॑नाम् । घो॒रा यद॑र्य॒ समृ॑ति॒र्भवा॒त्यध॑ स्मा नस्त॒न्वो॑ बोधि गो॒पाः ॥
tigmā́ yád antár aśániḥ pátāti kásmiṃcic chūra muhuké jánānām | ghorā́ yád arya sámṛtir bhávāty ádha smā nas tanvò bodhi gopā́ḥ ||
When the sharp thunderbolt falls within, upon some vulnerable point of men, O Hero; when a dreadful collision of forces arises, O noble one—then be awake as the guardian of our bodies, protecting the soul’s instrument.
ति॒ग्मा । यत् । अ॒न्तः । अ॒शनिः॑ । पता॑ति । कस्मि॑न् । चि॒त् । शू॒र॒ । मु॒हु॒के । जना॑नाम् । घो॒रा । यत् । अ॒र्य॒ । सम्ऽऋ॑तिः । भवा॑ति । अध॑ । स्म॒ । नः॒ । त॒न्वः॑ । बो॒धि॒ । गो॒पाः ॥तिग्मा । यत् । अन्तः । अशनिः । पताति । कस्मिन् । चित् । शूर । मुहुके । जनानाम् । घोरा । यत् । अर्य । सम्ऋतिः । भवाति । अध । स्म । नः । तन्वः । बोधि । गोपाः ॥tigmā | yat | antaḥ | aśaniḥ | patāti | kasmin | cit | śūra | muhuke | janānām | ghorā | yat | arya | sam-ṛtiḥ | bhavāti | adha | sma | naḥ | tanvaḥ | bodhi | gopāḥ