Sukta 4.10
शिवा नः सख्या सन्तु भ्रात्राग्ने देवेषु युष्मे । सा नो नाभिः सदने सस्मिन्नूधन् ॥
शि॒वा न॑: स॒ख्या सन्तु॑ भ्रा॒त्राग्ने॑ दे॒वेषु॑ यु॒ष्मे । सा नो॒ नाभि॒: सद॑ने॒ सस्मि॒न्नूध॑न् ॥
śivā́ naḥ sakhyā́ santu bhrā́trāgne devéṣu yuṣmé | sā́ no nā́bhiḥ sádane sásminn ū́dhan ||
May there be for us a gracious friendship—O Agni, as a brother among you gods. Let that become our navel-centre in this dwelling, a sustaining udder of nourishment within the home of the being.
शि॒वा । नः॒ । स॒ख्या । सन्तु॑ । भ्रा॒त्रा । अग्ने॑ । दे॒वेषु॑ । यु॒ष्मे इति॑ । सा । नः॒ । नाभिः॑ । सद॑ने । सस्मि॑न् । ऊध॑म् ॥शिवा । नः । सख्या । सन्तु । भ्रात्रा । अग्ने । देवेषु । युष्मे इति । सा । नः । नाभिः । सदने । सस्मिन् । ऊधम् ॥śivā | naḥ | sakhyā | santu | bhrātrā | agne | deveṣu | yuṣme iti | sā | naḥ | nābhiḥ | sadane | sasmin | ūdham