Sukta 4.1
विश्वेषामदितिर्यज्ञियानां विश्वेषामतिथिर्मानुषाणाम् । अग्निर्देवानामव आवृणानः सुमृळीको भवतु जातवेदाः ॥
विश्वे॑षा॒मदि॑तिर्य॒ज्ञिया॑नां॒ विश्वे॑षा॒मति॑थि॒र्मानु॑षाणाम् । अ॒ग्निर्दे॒वाना॒मव॑ आवृणा॒नः सु॑मृळी॒को भ॑वतु जा॒तवे॑दाः ॥
víśveṣām áditiḥ yajñíyānāṃ víśveṣām átithir mā́nuṣāṇām | agnír devā́nām áva āvṛṇānó su-mṛḷī́ko bhavatu jātá-vedāḥ ||
Aditi for all the worshipful ones, and a guest for all human beings—Agni, choosing the protection of the gods, may Jātavedas become wholly gracious to us.
विश्वे॑षाम् । अदि॑तिः । य॒ज्ञियानाम् । विश्वे॑षाम् । अति॑थिः । मानु॑षाणाम् । अ॒ग्निः । दे॒वाना॑म् । अवः॑ । आ॒ऽवृ॒णा॒नः । सु॒ऽमृ॒ळी॒कः । भ॒व॒तु॒ । जा॒तऽवे॑दाः ॥विश्वेषाम् । अदितिः । यज्ञियानाम् । विश्वेषाम् । अतिथिः । मानुषाणाम् । अग्निः । देवानाम् । अवः । आवृणानः । सुमृळीकः । भवतु । जातवेदाः ॥viśveṣām | aditiḥ | yajñiyānām | viśveṣām | atithiḥ | mānuṣāṇām | agniḥ | devānām | avaḥ | āvṛṇānaḥ | su-mṛḷīkaḥ | bhavatu | jāta-vedāḥ