Sukta 3.57
या ते अग्ने पर्वतस्येव धारासश्चन्ती पीपयद्देव चित्रा । तामस्मभ्यं प्रमतिं जातवेदो वसो रास्व सुमतिं विश्वजन्याम् ॥
या ते॑ अग्ने॒ पर्व॑तस्येव॒ धारास॑श्चन्ती पी॒पय॑द्देव चि॒त्रा । ताम॒स्मभ्यं॒ प्रम॑तिं जातवेदो॒ वसो॒ रास्व॑ सुम॒तिं वि॒श्वज॑न्याम् ॥
yā́ te agne párvatasyeva dhā́rā́ asaścántī pī́payad deva citrā́ | tā́m asmábhyaṃ prámatim jātavedo vaso rā́sva sumatíṃ viśvájanyām ||
That stream of yours, O Agni—like a mountain’s rushing flow—unceasing, richly varied, that makes all thrive: give to us that clear guidance, O Jātavedas, O Vasu; grant the good mind that is for all peoples.
या । ते॒ । अ॒ग्ने॒ । पर्व॑तस्यऽइव । धारा॑ । अस॑श्चन्ती । पी॒पय॑त् । दे॒व॒ । चि॒त्रा । ताम् । अ॒स्मभ्य॑म् । प्रऽम॑तिम् । जा॒त॒ऽवे॒दः॒ । वसो॒ इति॑ । रास्व॑ । सु॒ऽम॒तिम् । वि॒श्वऽज॑न्याम् ॥या । ते । अग्ने । पर्वतस्यइव । धारा । असश्चन्ती । पीपयत् । देव । चित्रा । ताम् । अस्मभ्यम् । प्रमतिम् । जातवेदः । वसो इति । रास्व । सुमतिम् । विश्वजन्याम् ॥yā | te | agne | parvatasya-iva | dhārā | asaścantī | pīpayat | dv | citrā | tām | asmabhyam | pra-matim | jāta-vedaḥ | vaso iti | rāsva | su-matim | viśva-janyām