Sukta 3.53
इम इन्द्र भरतस्य पुत्रा अपपित्वं चिकितुर्न प्रपित्वम् । हिन्वन्त्यश्वमरणं न नित्यं ज्यावाजं परि णयन्त्याजौ ॥
इ॒म इ॑न्द्र भर॒तस्य॑ पु॒त्रा अ॑पपि॒त्वं चि॑कितु॒र्न प्र॑पि॒त्वम् । हि॒न्वन्त्यश्व॒मर॑णं॒ न नित्यं॒ ज्या॑वाजं॒ परि॑ णयन्त्या॒जौ ॥
imá indra bharatásya putrā́ apapitváṃ cikitúr ná prapitvám | hinvánty aśvám áraṇaṃ ná nítyaṃ jyā́-vājaṃ pári nayanty ājāú ||
These sons of Bharata, O Indra, have learned the art of not falling away, not of decline. They drive the horse that does not grow weary, not the one that is constantly failing; in the battle they lead around the bow-strong force of plenitude toward victory.
इ॒मे । इ॒न्द्र॒ । भ॒र॒तस्य॑ । पु॒त्राः । अ॒प॒ऽपि॒त्वम् । चि॒कि॒तुः॒ । न । प्र॒ऽपि॒त्वम् । हि॒न्वन्ति॑ । अश्व॑म् । अर॑णम् । न । नित्य॑म् । ज्या॒ऽवाज॑म् । परि॑ । न॒य॒न्ति॒ । आ॒जौ ॥इमे । इन्द्र । भरतस्य । पुत्राः । अपपित्वम् । चिकितुः । न । प्रपित्वम् । हिन्वन्ति । अश्वम् । अरणम् । न । नित्यम् । ज्यावाजम् । परि । नयन्ति । आजौ ॥ime | indra | bharatasya | putrāḥ | apa-pitvam | cikituḥ | na | pra-pitvam | hi nvanti | aśvam | araṇam | na | nityam | jyāvājam | pari | nayanti | ājau