Sukta 3.53
किं ते कृण्वन्ति कीकटेषु गावो नाशिरं दुह्रे न तपन्ति घर्मम् । आ नो भर प्रमगन्दस्य वेदो नैचाशाखं मघवन्रन्धया नः ॥
किं ते॑ कृण्वन्ति॒ कीक॑टेषु॒ गावो॒ नाशिरं॑ दु॒ह्रे न त॑पन्ति घ॒र्मम् । आ नो॑ भर॒ प्रम॑गन्दस्य॒ वेदो॑ नैचाशा॒खं म॑घवन्रन्धया नः ॥
kíṃ te kṛṇvanti kī́kaṭeṣu gā́vo ná āśíraṃ duhré ná tapanti gharmám | ā́ no bhara prá-magandasya védो naicāśā́khaṃ maghavan randhayā naḥ ||
What do thy rays of Light do among the Kīkaṭas, where they yield no rich essence and kindle not the warm ghr̥ta-heat? Bring to us the true knowing from the one who moves in a distorted fragrance, and, O Maghavan, subject for us the branchless/alien growth that does not belong to the right lineage of truth.
किम् । ते॒ । कृ॒ण्व॒न्ति॒ । कीक॑टेषु । गावः॑ । न । आ॒ऽशिर॑न् । दु॒ह्रे । न । त॒प॒न्ति॒ । घ॒र्मम् । आ । नः॒ । भ॒र॒ । प्रऽम॑गन्दस्य । वेदः॑ । नै॒चा॒ऽशा॒खम् । म॒घ॒ऽव॒न् । र॒न्ध॒य॒ । नः॒ ॥किम् । ते । कृण्वन्ति । कीकटेषु । गावः । न । आशिरन् । दुह्रे । न । तपन्ति । घर्मम् । आ । नः । भर । प्रमगन्दस्य । वेदः । नैचाशाखम् । मघवन् । रन्धय । नः ॥kim | te | kṛṇvanti | kīkaṭeṣu | gāvaḥ | na | āśiran | duhre | na | tapanti | gharmam | ā | naḥ | bhara | pra-magandasya | vedaḥ | naicāśākham | magha-van | randhaya | naḥ