Sukta 3.51
प्र ते अश्नोतु कुक्ष्योः प्रेन्द्र ब्रह्मणा शिरः । प्र बाहू शूर राधसे ॥
प्र ते॑ अश्नोतु कु॒क्ष्योः प्रेन्द्र॒ ब्रह्म॑णा॒ शिर॑: । प्र बा॒हू शू॑र॒ राध॑से ॥
prá te aśnotu kukṣyóḥ préndra bráhmaṇā śíraḥ | prá bāhū́ śūra rā́dhase ||
May it fill your belly; forward, O Indra, may the mantra reach your head; forward your arms, O hero, for the giving of fulfilment.
प्र । ते॒ । अ॒श्नो॒तु॒ । कु॒क्ष्योः । प्र । इ॒न्द्र॒ । ब्रह्म॑णा । शिरः॑ । प्र । बा॒हू इति॑ । शू॒र॒ । राध॑से ॥प्र । ते । अश्नोतु । कुक्ष्योः । प्र । इन्द्र । ब्रह्मणा । शिरः । प्र । बाहू इति । शूर । राधसे ॥pra | te | aśnotu | kukṣyoḥ | pra | indra | brahmaṇā | śiraḥ | pra | bāhū iti | śūra | rādhase