Sukta 3.5
मित्रो अग्निर्भवति यत्समिद्धो मित्रो होता वरुणो जातवेदाः । मित्रो अध्वर्युरिषिरो दमूना मित्रः सिन्धूनामुत पर्वतानाम् ॥
मि॒त्रो अ॒ग्निर्भ॑वति॒ यत्समि॑द्धो मि॒त्रो होता॒ वरु॑णो जा॒तवे॑दाः । मि॒त्रो अ॑ध्व॒र्युरि॑षि॒रो दमू॑ना मि॒त्रः सिन्धू॑नामु॒त पर्व॑तानाम् ॥
mitró agnír bhavati yát samiddhó mitró hotā́ váruṇo jātávedāḥ | mitró adhvaryúr iṣiró damū́nā mitráḥ síndhūnām utá párvatānām ||
Agni becomes Mitra when he is kindled: he is Mitra as the Hotṛ, Varuṇa as Jātavedas. He is Mitra as the Adhvaryu, swift and master of the house; Mitra of the rivers and also of the mountains.
मि॒त्रः । अ॒ग्निः । भ॒व॒ति॒ । यत् । सम्ऽइ॑द्धः । मि॒त्रः । होता॑ । वरु॑णः । ज॒तऽवे॑दाः । मि॒त्रः । अ॒ध्व॒र्युः । इ॒षि॒रः । दमू॑नाः । मि॒त्रः । सिन्धू॑नाम् । उ॒त । पर्व॑तानाम् ॥मित्रः । अग्निः । भवति । यत् । सम्इद्धः । मित्रः । होता । वरुणः । जतवेदाः । मित्रः । अध्वर्युः । इषिरः । दमूनाः । मित्रः । सिन्धूनाम् । उत । पर्वतानाम् ॥mitraḥ | agniḥ | bhavati | yat | sam-iddhaḥ | mitraḥ | hotā | varuṇaḥ | jata-vedāḥ | mitraḥ | adhvaryuḥ | iṣiraḥ | damūnāḥ | mitraḥ | sindhūnām | uta | parvatānām