Sukta 3.5
उदस्तम्भीत्समिधा नाकमृष्वोऽग्निर्भवन्नुत्तमो रोचनानाम् । यदी भृगुभ्यः परि मातरिश्वा गुहा सन्तं हव्यवाहं समीधे ॥
उद॑स्तम्भीत्स॒मिधा॒ नाक॑मृ॒ष्वो॒३॒॑ऽग्निर्भव॑न्नुत्त॒मो रो॑च॒नाना॑म् । यदी॒ भृगु॑भ्य॒: परि॑ मात॒रिश्वा॒ गुहा॒ सन्तं॑ हव्य॒वाहं॑ समी॒धे ॥
úd astambhīt samídhā nā́kam ṛ́ṣvo 'gnír bhávann uttamó rocanā́nām | yadī́ bhṛ́gubhyaḥ pári mātáriśvā guhā́ sántaṃ havyavā́haṃ samī́dhe ||
With the kindling he has propped up the heaven; lofty Agni, becoming the highest of the luminous worlds. When Mātariśvan, for the Bhṛgus, kindled the oblation-bearer who was hidden in secrecy.
उत् । अ॒स्त॒म्भी॒त् । स॒म्ऽइधा॑ । नाक॑म् । ऋ॒ष्वः । अ॒ग्निः । भव॑न् । उ॒त्ऽत॒मः । रो॒च॒नाना॑म् । यदि॑ । भृगु॑ऽभ्यः॑ । परि॑ । मा॒त॒रिश्वा॑ । गुहा॑ । सन्त॑म् । ह॒व्य॒ऽवाह॑म् । स॒म्ऽई॒धे ॥उत् । अस्तम्भीत् । सम्इधा । नाकम् । ऋष्वः । अग्निः । भवन् । उत्तमः । रोचनानाम् । यदि । भृगुभ्यः । परि । मातरिश्वा । गुहा । सन्तम् । हव्यवाहम् । सम्ईधे ॥ut | astambhīt | sam-idhā | nākam | ṛṣvaḥ | agniḥ | bhavan | ut-tamaḥ | rocanānām | yadi | bhṛgu-bhyaḥ | pari | mātariśvā | guhā | santam | havya-vāham | sam-īdhe