Sukta 3.45
स्वयुरिन्द्र स्वराळसि स्मद्दिष्टिः स्वयशस्तरः । स वावृधान ओजसा पुरुष्टुत भवा नः सुश्रवस्तमः ॥
स्व॒युरि॑न्द्र स्व॒राळ॑सि॒ स्मद्दि॑ष्टि॒: स्वय॑शस्तरः । स वा॑वृधा॒न ओज॑सा पुरुष्टुत॒ भवा॑ नः सु॒श्रव॑स्तमः ॥
svayúr indra sva-rā́ḷ asi smád-diṣṭiḥ sváyaśas-taraḥ | sá vāvṛdhānó ójasā puru-stuta bhávā naḥ su-śrávas-tamaḥ ||
Self-impelled art thou, O Indra; self-ruling, guided by thy own law, surpassing in thy own glory. Growing by thy force, O much-praised, become for us the most perfectly fame-bearing—hearing and making heard our truth.
स्व॒ऽयुः । इ॒न्द्र॒ । स्व॒ऽराट् । अ॒सि॒ । स्मत्ऽदि॑ष्टिः । स्वय॑शःऽतरः । सः । व॒वृ॒धा॒नः । ओज॑सा । पु॒रु॒ऽस्तु॒त॒ । भव॑ । नः॒ । सु॒श्रवः॑ऽतमः ॥स्वयुः । इन्द्र । स्वराट् । असि । स्मत्दिष्टिः । स्वयशःतरः । सः । ववृधानः । ओजसा । पुरुस्तुत । भव । नः । सुश्रवःतमः ॥sva-yuḥ | indra | sva-rāṭ | asi | smat-diṣṭiḥ | svayaśaḥ-taraḥ | saḥ | vavṛdhānaḥ | ojasā | puru-stuta | bhava | naḥ | suśravaḥ-tamaḥ