Sukta 3.4
आ याह्यग्ने समिधानो अर्वाङिन्द्रेण देवैः सरथं तुरेभिः । बर्हिर्न आस्तामदितिः सुपुत्रा स्वाहा देवा अमृता मादयन्ताम् ॥
आ या॑ह्यग्ने समिधा॒नो अ॒र्वाङिन्द्रे॑ण दे॒वैः स॒रथं॑ तु॒रेभि॑: । ब॒र्हिर्न॑ आस्ता॒मदि॑तिः सुपु॒त्रा स्वाहा॑ दे॒वा अ॒मृता॑ मादयन्ताम् ॥
ā yā́hy agne samidhānáḥ arvā́ṅ índreṇa deváir sa-rátham turébhiḥ | bárhir na ā́stām áditiḥ su-putrā svā́hā devā́ amṛ́tā mādayantām ||
Come, O Agni, kindled, turning hither with Indra and the gods in one chariot, with the swift powers. Let our sacred seat be established; let Aditi, rich in good offspring, be here. Svāhā—may the immortal gods take joy (in the offering and in our inner increase).
आ । या॒हि॒ । अ॒ग्ने॒ । स॒म्ऽइ॒धा॒नः । अ॒र्वाङ् । इन्द्रे॑ण । दे॒वैः । स॒ऽरथ॑म् । तु॒रेभिः॑ । ब॒र्हिः । नः॒ । आस्ता॑म् । अदि॑तिः । सु॒ऽपु॒त्रा । स्वाहा॑ । दे॒वाः । अ॒मृताः॑ । मा॒द॒य॒न्ता॒म् ॥आ । याहि । अग्ने । सम्इधानः । अर्वाङ् । इन्द्रेण । देवैः । सरथम् । तुरेभिः । बर्हिः । नः । आस्ताम् । अदितिः । सुपुत्रा । स्वाहा । देवाः । अमृताः । मादयन्ताम् ॥ā | yāhi | agne | sam-idhānaḥ | arvāṅ | indreṇa | devaiḥ | sa-ratham | turebhiḥ | barhiḥ | naḥ | āstām | aditiḥ | su-putrā | svāhā | devāḥ | amṛtāḥ | mādayantām