Sukta 3.33
प्र पर्वतानामुशती उपस्थादश्वे इव विषिते हासमाने । गावेव शुभ्रे मातरा रिहाणे विपाट् छुतुद्री पयसा जवेते ॥
प्र पर्व॑तानामुश॒ती उ॒पस्था॒दश्वे॑ इव॒ विषि॑ते॒ हास॑माने । गावे॑व शु॒भ्रे मा॒तरा॑ रिहा॒णे विपा॑ट् छुतु॒द्री पय॑सा जवेते ॥
prá párvatānām uśatī́ upásthād áśve iva víṣite hāsámāne | gā́veva śubhré mā́tarā rihāṇé vipā́ṭ chūtudrī́ páyasā javete ||
From the lap of the mountains the two desirous ones surge forth, laughing like unbridled mares. Like bright mothers, like cows licking their calf, Vipāṭ and Śutudrī run swift with their milk of nourishment—streams of sustaining delight.
प्र । पर्व॑तानाम् । उ॒श॒ती इति॑ । उ॒पऽस्था॑त् । अश्वे॑इ॒वेत्यश्वे॑ऽइव । विसि॑ते॒ इति॒ विऽसि॑ते । हास॑माने॒ इति॑ । गावा॑ऽइव । शु॒भ्रे इति॑ । मा॒तरा॑ । रि॒हा॒णे इति॑ । विऽपा॑ट् । शु॒तु॒द्री । पय॑सा । ज॒वे॒ते॒ इति॑ ॥प्र । पर्वतानाम् । उशती इति । उपस्थात् । अश्वेइवेत्यश्वेइव । विसिते इति विसिते । हासमाने इति । गावाइव । शुभ्रे इति । मातरा । रिहाणे इति । विपाट् । शुतुद्री । पयसा । जवेते इति ॥pra | parvatānām | uśatī iti | upa-sthāt | aśveivetyaśve--iva | visiteitivi-site | hāsamāneiti | gāvāiva | śubhre iti | mātarā | rihāṇe iti | vi-pāṭ | śutudrī | payasā | javeteiti