Sukta 3.3
अन्तर्दूतो रोदसी दस्म ईयते होता निषत्तो मनुषः पुरोहितः । क्षयं बृहन्तं परि भूषति द्युभिर्देवेभिरग्निरिषितो धियावसुः ॥
अ॒न्तर्दू॒तो रोद॑सी द॒स्म ई॑यते॒ होता॒ निष॑त्तो॒ मनु॑षः पु॒रोहि॑तः । क्षयं॑ बृ॒हन्तं॒ परि॑ भूषति॒ द्युभि॑र्दे॒वेभि॑र॒ग्निरि॑षि॒तो धि॒याव॑सुः ॥
antár dūtó rodasī dasmá īyate hotā́ níṣatto mánuṣaḥ puróhitaḥ | kṣáyaṃ bṛhántam pári bhūṣati dyúbhir devébhir agnír iṣitó dhiyā́vasuḥ ||
As the inward messenger between the two worlds, the wonderful one moves; the invoker, seated within man, set in front as the guiding priest. He adorns all around the vast home with the luminous powers; Agni, impelled by the gods, rich in the wealth of inspired thought.
अ॒न्तः । दू॒तः । रोद॑सी॒ इति॑ । द॒स्मः । ई॒य॒ते॒ । होता॑ । निऽस॑त्तः । मनु॑षः । पु॒रःऽहि॑तः । क्षय॑म् । बृ॒हन्त॑म् । परि॑ । भू॒ष॒ति॒ । द्युऽभिः॑ । दे॒वेभिः॑ । अ॒ग्निः । इ॒षि॒तः । धि॒याऽव॑सुः ॥अन्तः । दूतः । रोदसी इति । दस्मः । ईयते । होता । निसत्तः । मनुषः । पुरःहितः । क्षयम् । बृहन्तम् । परि । भूषति । द्युभिः । देवेभिः । अग्निः । इषितः । धियावसुः ॥antaḥ | dūtaḥ | rodasī iti | dasmaḥ | īyate | hotā | ni-sattaḥ | manuṣaḥ | puraḥ-hitaḥ | kṣayam | bṛhantam | pari | bhūṣati | dyu-bhiḥ | devebhiḥ | agniḥ | iṣitaḥ | dhiyāvasuḥ