Sukta 3.3
वैश्वानराय पृथुपाजसे विपो रत्ना विधन्त धरुणेषु गातवे । अग्निर्हि देवाँ अमृतो दुवस्यत्यथा धर्माणि सनता न दूदुषत् ॥
वै॒श्वा॒न॒राय॑ पृथु॒पाज॑से॒ विपो॒ रत्ना॑ विधन्त ध॒रुणे॑ष॒च गात॑वे । अ॒ग्निर्हि दे॒वाँ अ॒मृतो॑ दुव॒स्यत्यथा॒ धर्मा॑णि स॒नता॒ न दू॑दुषत् ॥
vaiśvānará̄ya pṛthu-pā́jase vípo rátnā vidhanta dharuṇéṣu ca gā́tave | agnír hí devā́n amṛ́to duvasyáty áthā dhármāṇi sanatā́ ná dū́duṣat ||
For Vaiśvānara, wide in his radiance, the seers fashion the treasures and the firm foundations for our going. For Agni, immortal, truly serves the gods; therefore the eternal laws of the Truth do not fail nor fall into disorder.
वै॒श्वा॒न॒राय॑ । पृ॒थु॒ऽपाज॑से । विपः॑ । रत्ना॑ । वि॒ध॒न्त॒ । ध॒रुणे॑षु । गात॑वे । अ॒ग्निः । हि । दे॒वान् । अ॒मृतः॑ । दु॒व॒स्यति॑ । अथ॑ । धर्मा॑णि । स॒नता॑ । न । दू॒दु॒ष॒त् ॥वैश्वानराय । पृथुपाजसे । विपः । रत्ना । विधन्त । धरुणेषु । गातवे । अग्निः । हि । देवान् । अमृतः । दुवस्यति । अथ । धर्माणि । सनता । न । दूदुषत् ॥vaiśvānarāya | pṛthu-pājase | vipaḥ | ratnā | vidhanta | dharuṇeṣu | gātave | agniḥ | hi | devān | amṛtaḥ | duvasyati | atha | dharmāṇi | sanatā | na | dūduṣat