Sukta 3.27
वृषणं त्वा वयं वृषन्वृषणः समिधीमहि । अग्ने दीद्यतं बृहत् ॥
वृष॑णं त्वा व॒यं वृ॑ष॒न्वृष॑ण॒: समि॑धीमहि । अग्ने॒ दीद्य॑तं बृ॒हत् ॥
vṛ́ṣaṇaṃ tvā vayáṃ vṛṣan vṛ́ṣaṇaḥ samidhīmahi | ágne dī́dyataṃ bṛhát ||
The Bull-force that thou art, O Bull— we, too, bull-strong in our striving, kindle thee fully. O Agni, blaze wide in the Vast.
वृष॑णम् । त्वा॒ । व॒यम् । वृ॒ष॒न् । वृष॑णः । सम् । इ॒धी॒म॒हि॒ । अग्ने॑ । दीद्य॑तम् । बृ॒हत् ॥वृषणम् । त्वा । वयम् । वृषन् । वृषणः । सम् । इधीमहि । अग्ने । दीद्यतम् । बृहत् ॥vṛṣaṇam | tvā | vayam | vṛṣan | vṛṣaṇaḥ | sam | idhīmahi | agne | dīdyatam | bṛhat