Sukta 3.27
प्र वो वाजा अभिद्यवो हविष्मन्तो घृताच्या । देवाञ्जिगाति सुम्नयुः ॥
प्र वो॒ वाजा॑ अ॒भिद्य॑वो ह॒विष्म॑न्तो घृ॒ताच्या॑ । दे॒वाञ्जि॑गाति सुम्न॒युः ॥
prá vo vā́jā abhidyávo havíṣmanto ghṛtā́cyā | devā́ñ jigāti sumnayúḥ ||
Forward go your plenitudes of force, pressing toward the heights, bearing the offering and moving with clarified light; the seeker of grace reaches the gods.
प्र । वः॒ । वाजाः॑ । अ॒भिऽद्य॑वः । ह॒विष्म॑न्तः । घृ॒ताच्या॑ । दे॒वान् । जि॒गा॒ति॒ । सु॒म्न॒युः ॥प्र । वः । वाजाः । अभिद्यवः । हविष्मन्तः । घृताच्या । देवान् । जिगाति । सुम्नयुः ॥pra | vaḥ | vājāḥ | abhi-dyavaḥ | haviṣmantaḥ | ghṛtācyā | devān | jigāti | sumnayuḥ