Sukta 3.24
अग्ने सहस्व पृतना अभिमातीरपास्य । दुष्टरस्तरन्नरातीर्वर्चो धा यज्ञवाहसे ॥
अग्ने॒ सह॑स्व॒ पृत॑ना अ॒भिमा॑ती॒रपा॑स्य । दु॒ष्टर॒स्तर॒न्नरा॑ती॒र्वर्चो॑ धा य॒ज्ञवा॑हसे ॥
agne sáhasva pṛ́tanā abhí-mātīr apā́sya | duṣṭáraḥ tárann arā́tīr várco dhā yajñá-vāhase ||
O Agni, prevail over the battles; cast away the assailing hostile powers. Hard to cross, yet crossing over the forces of negation, establish the splendour in the bearer of the sacrifice.
अग्ने॑ । सह॑स्व । पृत॑नाः । अ॒भिऽमा॑तीः । अप॑ । अ॒स्य॒ । दु॒स्तरः॑ । तर॑न् । अरा॑तीः । वर्चः॑ । धाः॒ । य॒ज्ञऽवा॑हसे ॥अग्ने । सहस्व । पृतनाः । अभिमातीः । अप । अस्य । दुस्तरः । तरन् । अरातीः । वर्चः । धाः । यज्ञवाहसे ॥agne | sahasva | pṛtanāḥ | abhi-mātīḥ | apa | asya | dustaraḥ | taran | arātīḥ | varcaḥ | dhāḥ | yajña-vāhase