Sukta 3.19
अग्निं होतारं प्र वृणे मियेधे गृत्सं कविं विश्वविदममूरम् । स नो यक्षद्देवताता यजीयान्राये वाजाय वनते मघानि ॥
अ॒ग्निं होता॑रं॒ प्र वृ॑णे मि॒येधे॒ गृत्सं॑ क॒विं वि॑श्व॒विद॒ममू॑रम् । स नो॑ यक्षद्दे॒वता॑ता॒ यजी॑यान्रा॒ये वाजा॑य वनते म॒घानि॑ ॥
agníṃ hótāraṃ prá vṛṇe miyédhe gṛ́tsaṃ kavíṃ viśvavíd amū́ram | sá no yakṣad devátātā yajī́yān rāyé vā́jāya vanate maghā́ni ||
I choose Agni, the invoking priest, in the meeting of sacrifice—Agni the inspired seer, the all-knower, the unbewildered. May he sacrifice for us, establishing the godheads within; the most worthy of offering, he wins for us the plenitude of being and the powers of fulfilment.
अ॒ग्निम् । होता॑रम् । प्र । वृ॒णे॒ । मि॒येधे॑ । गृत्स॑म् । क॒विम् । वि॒श्व॒ऽविद॑म् । अमू॑रम् । सः । नः॒ । य॒क्ष॒त् । दे॒वऽता॑ता । यजी॑यान् । रा॒ये । वाजा॑य । व॒न॒ते॒ । म॒घानि॑ ॥अग्निम् । होतारम् । प्र । वृणे । मियेधे । गृत्सम् । कविम् । विश्वविदम् । अमूरम् । सः । नः । यक्षत् । देवताता । यजीयान् । राये । वाजाय । वनते । मघानि ॥agnim | hotāram | pra | vṛṇe | miyedhe | gṛtsam | kavim | viśva-vidam | amūram | saḥ | naḥ | yakṣat | deva-tātā | yajīyān | rāye | vājāya | vanate | maghāni