Sukta 3.12
इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः । तद्वां चेति प्र वीर्यम् ॥
इन्द्रा॑ग्नी रोच॒ना दि॒वः परि॒ वाजे॑षु भूषथः । तद्वां॑ चेति॒ प्र वी॒र्य॑म् ॥
índrāgnī rocanā́ diváḥ pári vā́jeṣu bhūṣathaḥ | tád vāṃ ceti prá vī́ryam ||
O Indra and Agni, you move in adornment around the luminous regions of heaven amid the plenitudes of force; by that your hero-power becomes manifest and grows clear to the seeker.
इन्द्रा॑ग्नी॒ इति॑ । रो॒च॒ना । दि॒वः । परि॑ । वाजे॑षु । भू॒ष॒थः॒ । तत् । वा॒म् । चे॒ति॒ । प्र । वी॒र्य॑म् ॥इन्द्राग्नी इति । रोचना । दिवः । परि । वाजेषु । भूषथः । तत् । वाम् । चेति । प्र । वीर्यम् ॥indrāgnī iti | rocanā | divaḥ | pari | vājeṣu | bhūṣathaḥ | tat | vām | ceti | pra | vīryam