Sukta 3.12
इन्द्राग्नी आ गतं सुतं गीर्भिर्नभो वरेण्यम् । अस्य पातं धियेषिता ॥
इन्द्रा॑ग्नी॒ आ ग॑तं सु॒तं गी॒र्भिर्नभो॒ वरे॑ण्यम् । अ॒स्य पा॑तं धि॒येषि॒ता ॥
indrā́gnī ā́ gátam sutáṃ gī́rbhir nábho váreṇyam | asyá pātam dhiyéṣitā́ ||
O Indra and Agni, come to the pressed Soma, to the choice-worthy uplift (nábhas) called by our songs; drink of this, urged by the thought—by the awakened intention.
इन्द्रा॑ग्नी॒ इति॑ । आ । ग॑तम् । सु॒तम् । गीः॒ऽभिः । नभः॑ । वरे॑ण्यम् । अ॒स्य । पा॒त॒म् । धि॒या । इ॒षि॒ता ॥इन्द्राग्नी इति । आ । गतम् । सुतम् । गीःभिः । नभः । वरेण्यम् । अस्य । पातम् । धिया । इषिता ॥indrāgnī iti | ā | gatam | sutam | gīḥ-bhiḥ | nabhaḥ | vareṇyam | asya | pātam | dhiyā | iṣitā