Sukta 3.1
इमं यज्ञं सहसावन्त्वं नो देवत्रा धेहि सुक्रतो रराणः । प्र यंसि होतर्बृहतीरिषो नोऽग्ने महि द्रविणमा यजस्व ॥
इ॒मं य॒ज्ञं स॑हसाव॒न्त्वं नो॑ देव॒त्रा धे॑हि सुक्रतो॒ ररा॑णः । प्र यं॑सि होतर्बृह॒तीरिषो॒ नोऽग्ने॒ महि॒ द्रवि॑ण॒मा य॑जस्व ॥
imáṁ yajñáṁ sahasāvan tváṁ no deva-trā́ dhehi su-krato rárāṇaḥ | prá yaṁsi hotar bṛhatī́r íṣo no ’gne máhi dráviṇam ā́ yajasva ||
This sacrifice, O powerful one, establish for us in the divine direction, rejoicing, O clear-willed. As Hotar, send forth to us the vast impulsions of abundance; O Agni, sacrifice and bring down the great treasure of being.
इ॒मम् । य॒ज्ञम् । स॒ह॒सा॒ऽव॒न् । त्वम् । नः॒ । दे॒व॒ऽत्रा । धे॒हि॒ । सु॒ऽक्र॒तो॒ इति॑ सुऽक्रतो । ररा॑णः । प्र । यं॒सि॒ । हो॒तः॒ । बृ॒ह॒तीः । इषः॑ । नः॒ । अ॒ग्ने॒ । महि॑ । द्रवि॑णम् । आ । य॒ज॒स्व॒ ॥इमम् । यज्ञम् । सहसावन् । त्वम् । नः । देवत्रा । धेहि । सुक्रतो इति सुक्रतो । रराणः । प्र । यंसि । होतः । बृहतीः । इषः । नः । अग्ने । महि । द्रविणम् । आ । यजस्व ॥imam | yajñam | sahasāvan | tvam | naḥ | deva-trā | dhehi | su-krato itisu-krato | rarāṇaḥ | pra | yaṃsi | hotaḥ | bṛhatīḥ | iṣaḥ | naḥ | agne | mahi | draviṇam | ā | yajasva