Sukta 2.8
अग्नेरिन्द्रस्य सोमस्य देवानामूतिभिर्वयम् । अरिष्यन्तः सचेमह्यभि ष्याम पृतन्यतः ॥
अ॒ग्नेरिन्द्र॑स्य॒ सोम॑स्य दे॒वाना॑मू॒तिभि॑र्व॒यम् । अरि॑ष्यन्तः सचेमह्य॒भि ष्या॑म पृतन्य॒तः ॥
agnér índrasya sómasya devā́nām ūtíbhir vayám | áriṣyantaḥ sacemahy abhí ṣyāma pṛtanyatáḥ ||
By the protecting helps of Agni, Indra, Soma—and of the gods—we, unharmed, would cleave to them; and we would prevail against those who battle us, conquering the inner war.
अ॒ग्नेः । इन्द्र॑स्य । सोम॑स्य । दे॒वाना॑म् । ऊ॒तिऽभिः॑ । व॒यम् । अरि॑ष्यन्तः । स॒चे॒म॒हि॒ । अ॒भि । स्या॒म॒ । पृ॒त॒न्य॒तः ॥अग्नेः । इन्द्रस्य । सोमस्य । देवानाम् । ऊतिभिः । वयम् । अरिष्यन्तः । सचेमहि । अभि । स्याम । पृतन्यतः ॥agneḥ | indrasya | somasya | devānām | ūti-bhiḥ | vayam | ariṣyantaḥ | sacemahi | abhi | syāma | pṛtanyataḥ