Sukta 2.43
प्रदक्षिणिदभि गृणन्ति कारवो वयो वदन्त ऋतुथा शकुन्तयः । उभे वाचौ वदति सामगा इव गायत्रं च त्रैष्टुभं चानु राजति ॥
प्र॒द॒क्षि॒णिद॒भि गृ॑णन्ति का॒रवो॒ वयो॒ वद॑न्त ऋतु॒था श॒कुन्त॑यः । उ॒भे वाचौ॑ वदति साम॒गा इ॑व गाय॒त्रं च॒ त्रैष्टु॑भं॒ चानु॑ राजति ॥
pradakṣiṇíd abhi gṛṇanti kārávo váyo vádanta ṛtuthā́ śakúntayaḥ | ubhé vā́cau vadati sāmagā́ iva gāyatráṃ ca traíṣṭubhaṃ cā́nu rājati ||
Moving in the auspicious rightward course, the singers praise; the birds, speaking according to the seasons and the Truth-Order, utter their signs. It speaks with both voices, like a chanter of Sāman: it shines forth following both the Gāyatrī and the Triṣṭubh measures.
प्र॒ऽद॒क्षि॒णित् । अ॒भि । गृ॒ण॒न्ति॒ । का॒रवः॑ । वयः॑ । वद॑न्तः । ऋ॒तु॒ऽथा । श॒कुन्त॑यः । उ॒भे इति॑ । वाचौ॑ । व॒द॒ति॒ । सा॒म॒ऽगाःऽइ॑व । गा॒य॒त्रम् । च॒ । त्रैस्तु॑भम् । च॒ । अनु॑ । रा॒ज॒ति॒ ॥प्रदक्षिणित् । अभि । गृणन्ति । कारवः । वयः । वदन्तः । ऋतुथा । शकुन्तयः । उभे इति । वाचौ । वदति । सामगाःइव । गायत्रम् । च । त्रैस्तुभम् । च । अनु । राजति ॥pra-dakṣiṇit | abhi | gṛṇanti | kāravaḥ | vayaḥ | vadantaḥ | ṛtu-thā | śakuntayaḥ | ubhe iti | vācau | vadati | sāma-gāḥ-iva | gāyatram | ca | traistubham | ca | anu | rājati