Sukta 2.3
नराशंसः प्रति धामान्यञ्जन्तिस्रो दिवः प्रति मह्ना स्वर्चिः । घृतप्रुषा मनसा हव्यमुन्दन्मूर्धन्यज्ञस्य समनक्तु देवान् ॥
नरा॒शंस॒: प्रति॒ धामा॑न्य॒ञ्जन्ति॒स्रो दिव॒: प्रति॑ म॒ह्ना स्व॒र्चिः । घृ॒त॒प्रुषा॒ मन॑सा ह॒व्यमु॒न्दन्मू॒र्धन्य॒ज्ञस्य॒ सम॑नक्तु दे॒वान् ॥
narāśáṃsaḥ práti dhā́māny añjan tisró dívaḥ práti mahnā́ sv-arcíḥ | ghṛtá-pruṣā mánasā hávyam úndan mū́rdhan yajñásya sám anaktu devā́n ||
Let Narāśaṃsa, kindling the stations, shine with his own flame toward the three heavens in his greatness. Pouring the offering with a mind that drips with clarified light, may he anoint the gods upon the head of the sacrifice.
नरा॒शंसः॑ । प्रति॑ । धामा॑नि । अ॒ञ्जन् । ति॒स्रः । दिवः॑ । प्रति॑ । म॒ह्ना । सु॒ऽअ॒र्चिः । घृ॒त॒ऽप्रुषा॑ । मन॑सा । ह॒व्यम् । उ॒न्दन् । मू॒र्धन् । य॒ज्ञस्य॑ । सम् । अ॒न॒क्तु॒ । दे॒वान् ॥नराशंसः । प्रति । धामानि । अञ्जन् । तिस्रः । दिवः । प्रति । मह्ना । सुअर्चिः । घृतप्रुषा । मनसा । हव्यम् । उन्दन् । मूर्धन् । यज्ञस्य । सम् । अनक्तु । देवान् ॥narāśaṃsaḥ | prati | dhāmāni | añjan | tisraḥ | divaḥ | prati | mahnā | su-arci ḥ | ghṛta-pruṣā | manasā | havyam | undan | mūrdhan | yajñasya | sam | anaktu | devān