Sukta 2.3
समिद्धो अग्निर्निहितः पृथिव्यां प्रत्यङ्विश्वानि भुवनान्यस्थात् । होता पावकः प्रदिवः सुमेधा देवो देवान्यजत्वग्निरर्हन् ॥
समि॑द्धो अ॒ग्निर्निहि॑तः पृथि॒व्यां प्र॒त्यङ्विश्वा॑नि॒ भुव॑नान्यस्थात् । होता॑ पाव॒कः प्र॒दिव॑: सुमे॒धा दे॒वो दे॒वान्य॑जत्व॒ग्निरर्ह॑न् ॥
samíddho agnír níhitaḥ pṛthivyā́m pratyaṅ víśvāni bhúvanāny asthāt | hótā pāvakáḥ prá-divaḥ su-médhā devó devā́n yajatu agnír árhan ||
Kindled, Agni is set in the earth and stands facing all the worlds. The purifying Priest, of the forward heaven, of luminous intelligence—let Agni, the divine, the worthy, sacrifice the gods.
सम्ऽइ॑द्धः । अ॒ग्निः । निऽहि॑तः । पृ॒थि॒व्याम् । प्र॒त्यङ् । विश्वा॑नि । भुव॑नानि । अ॒स्था॒त् । होता॑ । पा॒व॒कः । प्र॒ऽदिवः॑ । सु॒ऽमे॒धाः । दे॒वः । दे॒वान् । य॒ज॒तु॒ । अ॒ग्निः । अर्ह॑न् ॥सम्इद्धः । अग्निः । निहितः । पृथिव्याम् । प्रत्यङ् । विश्वानि । भुवनानि । अस्थात् । होता । पावकः । प्रदिवः । सुमेधाः । देवः । देवान् । यजतु । अग्निः । अर्हन् ॥sam-iddhaḥ | agniḥ | ni-hitaḥ | pṛthivyām | pratyaṅ | viśvāni | bhuvanāni | asthāt | hotā | pāvakaḥ | pra-divaḥ | su-medhāḥ | devaḥ | devān | yajatu | agniḥ | arhan