Sukta 2.17
अधा यो विश्वा भुवनाभि मज्मनेशानकृत्प्रवया अभ्यवर्धत । आद्रोदसी ज्योतिषा वह्निरातनोत्सीव्यन्तमांसि दुधिता समव्ययत् ॥
अधा॒ यो विश्वा॒ भुव॑ना॒भि म॒ज्मने॑शान॒कृत्प्रव॑या अ॒भ्यव॑र्धत । आद्रोद॑सी॒ ज्योति॑षा॒ वह्नि॒रात॑नो॒त्सीव्य॒न्तमां॑सि॒ दुधि॑ता॒ सम॑व्ययत् ॥
adhā́ yo víśvā́ bhúvanā́bhi májmanéśāna-kṛtprávayā́ abhyávardhata | ād ródasī́ jyótiṣā́ váhnir ā́tanot sī́vyan támāṃsi dúdhitā́ sám avyayat ||
Then he who, by his vastness, grew over all worlds, the maker of mastery, advancing in the forward impulsion; he stretched out the two firmaments with his light. Sewing together the rents of the darkness, the impelling Fire-Power pressed them into a single coherence.
अध॑ । यः । विश्वा॑ । भुव॑ना । अ॒भि । म॒ज्मना॑ । ई॒शा॒न॒ऽकृत् । प्रऽव॑याः । अ॒भि । अव॑र्धत । आत् । रोद॑सी॒ इति॑ । ज्योति॑षा । वह्निः॑ । आ । अ॒त॒नो॒त् । सीव्य॑न् । तमां॑सि । दुधि॑ता । सम् । अ॒व्य॒य॒त् ॥अध । यः । विश्वा । भुवना । अभि । मज्मना । ईशानकृत् । प्रवयाः । अभि । अवर्धत । आत् । रोदसी इति । ज्योतिषा । वह्निः । आ । अतनोत् । सीव्यन् । तमांसि । दुधिता । सम् । अव्ययत् ॥adha | yaḥ | viśvā | bhuvanā | abhi | majmanā | īśāna-kṛt | pra-vayāḥ | abhi | avardhata | āt | rodasī iti | jyotiṣā | vahniḥ | ā | atanot | sīvyan | tamāṃsi | dudhitā | sam | avyayat