Sukta 2.16
प्र ते नावं न समने वचस्युवं ब्रह्मणा यामि सवनेषु दाधृषिः । कुविन्नो अस्य वचसो निबोधिषदिन्द्रमुत्सं न वसुनः सिचामहे ॥
प्र ते॒ नावं॒ न सम॑ने वच॒स्युवं॒ ब्रह्म॑णा यामि॒ सव॑नेषु॒ दाधृ॑षिः । कु॒विन्नो॑ अ॒स्य वच॑सो नि॒बोधि॑ष॒दिन्द्र॒मुत्सं॒ न वसु॑नः सिचामहे ॥
prá te nā́vaṃ ná sámane vacasyúvaṃ bráhmaṇā yā́mi sávaneṣu dā́dhṛṣiḥ | kuvín no asyá vácaso nibódhiṣad índram utsáṃ ná vásunaḥ sicāmahe ||
As a boat to the crossing, I go to thee with the word that seeks utterance, with the mantra, in the Soma-pressings, O steadfast one. May he indeed take notice of this our speech; may we pour out Indra like a fountain of riches.
प्र । ते॒ । नाव॑म् । न । सम॑ने । व॒च॒स्युव॑म् । ब्रह्म॑णा । या॒मि॒ । सव॑नेषु । दधृ॑षिः । कु॒वित् । नः॒ । अ॒स्य । वच॑सः । नि॒ऽबोधि॑षत् । इन्द्र॑म् । उत्स॑म् । न । वसु॑नः । सि॒चा॒म॒हे॒ ॥प्र । ते । नावम् । न । समने । वचस्युवम् । ब्रह्मणा । यामि । सवनेषु । दधृषिः । कुवित् । नः । अस्य । वचसः । निबोधिषत् । इन्द्रम् । उत्सम् । न । वसुनः । सिचामहे ॥pra | te | nāvam | na | samane | vacasyuvam | brahmaṇā | yāmi | savaneṣu | dadhṛṣiḥ | kuvit | naḥ | asya | vacasaḥ | ni-bodhiṣat | indram | utsam | na | vasunaḥ | sicāmahe