Sukta 10.93
एतं मे स्तोमं तना न सूर्ये द्युतद्यामानं वावृधन्त नृणाम् । संवननं नाश्व्यं तष्टेवानपच्युतम् ॥
ए॒तं मे॒ स्तोमं॑ त॒ना न सूर्ये॑ द्यु॒तद्या॑मानं वावृधन्त नृ॒णाम् । सं॒वन॑नं॒ नाश्व्यं॒ तष्टे॒वान॑पच्युतम् ॥
etáṃ me stómaṃ tanā́ ná sū́rye dyutádyāmānaṃ vāvṛdhanta nṛṇā́m | saṃvánanaṃ nā́śvyaṃ táṣṭevā́nápacyutam ||
This hymn of mine they have increased like the Sun’s far-shining course among men: a joining-together, like a well-fashioned chariot-work, firm and not slipping—so that the inner union of our forces may be stable and enduring.
ए॒तम् । मे॒ । स्तोम॑म् । त॒ना । न । सूर्ये॑ । द्यु॒तत्ऽया॑मानम् । व॒वृ॒ध॒न्त॒ । नृ॒णाम् । स॒म्ऽवन॑नम् । न । अस्व्य॑म् । तष्टा॑ऽइव । अन॑पऽच्युतम् ॥एतम् । मे । स्तोमम् । तना । न । सूर्ये । द्युतत्यामानम् । ववृधन्त । नृणाम् । सम्वननम् । न । अस्व्यम् । तष्टाइव । अनपच्युतम् ॥etam | me | stomam | tanā | na | sūrye | dyutat-yāmānam | vavṛdhanta | nṛṇām | sam-vananam | na | asvyam | taṣṭāiva | anapa-cyutam