Sukta 10.91
यस्मिन्नश्वास ऋषभास उक्षणो वशा मेषा अवसृष्टास आहुताः । कीलालपे सोमपृष्ठाय वेधसे हृदा मतिं जनये चारुमग्नये ॥
यस्मि॒न्नश्वा॑स ऋष॒भास॑ उ॒क्षणो॑ व॒शा मे॒षा अ॑वसृ॒ष्टास॒ आहु॑ताः । की॒ला॒ल॒पे सोम॑पृष्ठाय वे॒धसे॑ हृ॒दा म॒तिं ज॑नये॒ चारु॑म॒ग्नये॑ ॥
yásminn áśvās ṛṣabhā́sa ukṣáṇo vaśā́ meṣā́ avasṛṣṭā́sa ā́hutāḥ | kīlālapé sómapṛṣṭhāya védhase hṛdā́ matíṃ janaye cā́rum agnáye ||
In whom the powers—steeds, bulls, strong ones; the yielding energies and rams—are released and offered: on that pressed sweetness, on the Soma-backed Wisdom-Worker, I generate with the heart a fair thought for Agni.
यस्मि॑न् । अश्वा॑सः । ऋ॒ष॒भासः॑ । उ॒क्षणः॑ । व॒शाः । मे॒षाः । अ॒व॒ऽसृ॒ष्टासः । आऽहु॑ताः । की॒ला॒ल॒ऽपे । सोम॑ऽपृष्ठाय । वे॒धसे॑ । हृ॒दा । म॒तिम् । ज॒न॒ये॒ । चारु॑म् । अ॒ग्नये॑ ॥यस्मिन् । अश्वासः । ऋषभासः । उक्षणः । वशाः । मेषाः । अवसृष्टासः । आहुताः । कीलालपे । सोमपृष्ठाय । वेधसे । हृदा । मतिम् । जनये । चारुम् । अग्नये ॥yasmin | aśvāsaḥ | ṛṣabhāsaḥ | ukṣaṇaḥ | vaśāḥ | meṣāḥ | ava-sṛṣṭāsaḥ | āhutāḥ | kīlāla-pe | soma-pṛṣṭhāya | vedhase | hṛdā | matim | janaye | cārum | agnaye